Site logo

मृत्युमहोत्सव

Author:
Language : Hindi
Rhythm:

Type: Mrutyu Mohotsav
Particulars: Paath
Created By: Shashank Shaha

मृत्यु- मार्गे प्रवृत्तस्य वीतरागोददातु मे
समाधि-बोधि-पाथेयं यावन्मुक्ति-पुरी पुर:॥१॥

कृमि – जाल – शताकीर्णे, जर्जरे देह – पञ्जरे
भज्यमाने न भेतव्यं, यतस्त्वं ज्ञान-विग्रह:॥२॥

ज्ञानिन् भयं भवेत्कस्मात्प्राप्ते मृत्यु-महोत्सवे
स्वरूपस्थ: पुरं याति, देही देहान्तर-स्थितिम्॥३॥

सुदत्तं प्राप्यते यस्माद्, दृश्यते पूर्व-सत्तमै:
भुज्यते-स्वर्भवं सौख्यं मृत्युभीति: कुत: सताम्॥४॥

आगर्भाद्दु:ख – सन्तप्त: प्रक्षिप्तो देह-पिञ्जरे
नात्मा विमुच्यतेऽन्येन मृत्यु-भूमिपतिं विना॥५॥

सर्व – दु:खं – प्रदं पिण्डं दूरीकृत्यात्मदर्शिभि:
मृत्यु-मित्र-प्रसादेन प्राप्यन्ते सुख-सम्पद:॥६॥

मृत्यु-कल्पद्रुमे प्राप्ते येनात्मार्थो न साधित:
निमग्नो जन्म-जम्बाले स पश्चात् किं करिष्यति॥७॥

जीर्णं देहादिकं सर्वं नूतनं जायते यत:
स मृत्यु: किं न मोदाय सतां सतोत्थितिर्यथा॥८॥

सुखं दु:खं सदा वेत्ति देहस्थश्च स्वयं व्रजेत्
मृत्यु-भीतिस्तदा कस्य जायते परमार्थत:॥९॥

संसारासक्त-चित्तानां मृत्युर्भीत्यै भवेन्नृणाम्
मोदायते पुन: सोऽपि ज्ञान-वैराग्यवासिनाम्॥१०॥

पुराधीशो यदा याति सुकृत्यस्य बुभुत्सया
तदासौ वार्यते केन प्रपञ्चै: पाञ्च-भौतिकै:॥११॥

मृत्यु-काले सतां दु:खं यद् भवेद् व्याधि-संभवम्
देह-मोह-विनाशाय मन्ये शिव-सुखाय च॥१२॥

ज्ञानिनोऽमृत – सङ्गाय मृत्युस्तापकरोऽपि सन्
आमकुम्भस्य लोकेऽस्मिन् भवेत्पाकविधिर्यथा॥१३॥

यत्फलं प्राप्यते सद्भिव्र्रतायास – विडम्बनात्
तत्फलं सुखसाध्यं स्यान्मृत्यु-काले समाधिना॥१४॥

अनार्त: शान्तिमान् मत्र्यो न तिर्यग्नापि नारक:
धम्र्य-ध्यानी पुरो मत्र्योऽनशनी त्वमरेश्वर:॥१५॥

तप्तस्य तपसश्चापि पालितस्य व्रतस्य च
पठितस्य श्रुतस्यापि फलं मृत्यु: समाधिना॥१६॥

अतिपरिचितेष्ववज्ञा नवे भवेत्प्रीतिरिति हि जन-वाद:
चिरंतर-शरीर-नाशे नवतर-लाभे च किं भीरु:॥१७॥

स्वर्गादेत्य पवित्र-निर्मल – कुले संस्मर्यमाणा जनै-
र्दत्वा भक्ति-विधायिनां बहुविधं वाञ्छानुरूपं धनम्!
भुक्त्वा भोगमहर्निशं पर-कृतं स्थित्वा क्षणं मण्डले,
पात्रावेश-विसर्जनामिव मृतिं सन्तो लभन्ते स्वत:॥१८॥

Shashank Shaha added more details to update on 15 November 2024.

You cannot copy content of this page